Hebrews 13 (SBIDS)

1 भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां 2 यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्। 3 बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां। 4 विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते। 5 यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।" 6 अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥" 7 युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां। 8 यीशुः ख्रीष्टः श्वोऽद्य सदा च स एवास्ते। 9 यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः। 10 ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते। 11 यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते। 12 तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्। 13 अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं। 14 यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते। 15 अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं। 16 अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते। 17 यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्। 18 अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः। 19 विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये। 20 अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो 21 निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्। 22 हे भ्रातरः, विनयेऽहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतोऽहं संक्षेपेण युष्मान् प्रति लिखितवान्। 23 अस्माकं भ्राता तीमथियो मुक्तोऽभवद् इति जानीत, स च यदि त्वरया समागच्छति तर्हि तेन सार्द्धंम् अहं युष्मान् साक्षात् करिष्यामि। 24 युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ। 25 अनुग्रहो युष्माकं सर्व्वेषां सहायो भूयात्। आमेन्।

In Other Versions

Hebrews 13 in the ANGEFD

Hebrews 13 in the ANTPNG2D

Hebrews 13 in the AS21

Hebrews 13 in the BAGH

Hebrews 13 in the BBPNG

Hebrews 13 in the BBT1E

Hebrews 13 in the BDS

Hebrews 13 in the BEV

Hebrews 13 in the BHAD

Hebrews 13 in the BIB

Hebrews 13 in the BLPT

Hebrews 13 in the BNT

Hebrews 13 in the BNTABOOT

Hebrews 13 in the BNTLV

Hebrews 13 in the BOATCB

Hebrews 13 in the BOATCB2

Hebrews 13 in the BOBCV

Hebrews 13 in the BOCNT

Hebrews 13 in the BOECS

Hebrews 13 in the BOGWICC

Hebrews 13 in the BOHCB

Hebrews 13 in the BOHCV

Hebrews 13 in the BOHLNT

Hebrews 13 in the BOHNTLTAL

Hebrews 13 in the BOICB

Hebrews 13 in the BOILNTAP

Hebrews 13 in the BOITCV

Hebrews 13 in the BOKCV

Hebrews 13 in the BOKCV2

Hebrews 13 in the BOKHWOG

Hebrews 13 in the BOKSSV

Hebrews 13 in the BOLCB

Hebrews 13 in the BOLCB2

Hebrews 13 in the BOMCV

Hebrews 13 in the BONAV

Hebrews 13 in the BONCB

Hebrews 13 in the BONLT

Hebrews 13 in the BONUT2

Hebrews 13 in the BOPLNT

Hebrews 13 in the BOSCB

Hebrews 13 in the BOSNC

Hebrews 13 in the BOTLNT

Hebrews 13 in the BOVCB

Hebrews 13 in the BOYCB

Hebrews 13 in the BPBB

Hebrews 13 in the BPH

Hebrews 13 in the BSB

Hebrews 13 in the CCB

Hebrews 13 in the CUV

Hebrews 13 in the CUVS

Hebrews 13 in the DBT

Hebrews 13 in the DGDNT

Hebrews 13 in the DHNT

Hebrews 13 in the DNT

Hebrews 13 in the ELBE

Hebrews 13 in the EMTV

Hebrews 13 in the ESV

Hebrews 13 in the FBV

Hebrews 13 in the FEB

Hebrews 13 in the GGMNT

Hebrews 13 in the GNT

Hebrews 13 in the HARY

Hebrews 13 in the HNT

Hebrews 13 in the IRVA

Hebrews 13 in the IRVB

Hebrews 13 in the IRVG

Hebrews 13 in the IRVH

Hebrews 13 in the IRVK

Hebrews 13 in the IRVM

Hebrews 13 in the IRVM2

Hebrews 13 in the IRVO

Hebrews 13 in the IRVP

Hebrews 13 in the IRVT

Hebrews 13 in the IRVT2

Hebrews 13 in the IRVU

Hebrews 13 in the ISVN

Hebrews 13 in the JSNT

Hebrews 13 in the KAPI

Hebrews 13 in the KBT1ETNIK

Hebrews 13 in the KBV

Hebrews 13 in the KJV

Hebrews 13 in the KNFD

Hebrews 13 in the LBA

Hebrews 13 in the LBLA

Hebrews 13 in the LNT

Hebrews 13 in the LSV

Hebrews 13 in the MAAL

Hebrews 13 in the MBV

Hebrews 13 in the MBV2

Hebrews 13 in the MHNT

Hebrews 13 in the MKNFD

Hebrews 13 in the MNG

Hebrews 13 in the MNT

Hebrews 13 in the MNT2

Hebrews 13 in the MRS1T

Hebrews 13 in the NAA

Hebrews 13 in the NASB

Hebrews 13 in the NBLA

Hebrews 13 in the NBS

Hebrews 13 in the NBVTP

Hebrews 13 in the NET2

Hebrews 13 in the NIV11

Hebrews 13 in the NNT

Hebrews 13 in the NNT2

Hebrews 13 in the NNT3

Hebrews 13 in the PDDPT

Hebrews 13 in the PFNT

Hebrews 13 in the RMNT

Hebrews 13 in the SBIAS

Hebrews 13 in the SBIBS

Hebrews 13 in the SBIBS2

Hebrews 13 in the SBICS

Hebrews 13 in the SBIGS

Hebrews 13 in the SBIHS

Hebrews 13 in the SBIIS

Hebrews 13 in the SBIIS2

Hebrews 13 in the SBIIS3

Hebrews 13 in the SBIKS

Hebrews 13 in the SBIKS2

Hebrews 13 in the SBIMS

Hebrews 13 in the SBIOS

Hebrews 13 in the SBIPS

Hebrews 13 in the SBISS

Hebrews 13 in the SBITS

Hebrews 13 in the SBITS2

Hebrews 13 in the SBITS3

Hebrews 13 in the SBITS4

Hebrews 13 in the SBIUS

Hebrews 13 in the SBIVS

Hebrews 13 in the SBT

Hebrews 13 in the SBT1E

Hebrews 13 in the SCHL

Hebrews 13 in the SNT

Hebrews 13 in the SUSU

Hebrews 13 in the SUSU2

Hebrews 13 in the SYNO

Hebrews 13 in the TBIAOTANT

Hebrews 13 in the TBT1E

Hebrews 13 in the TBT1E2

Hebrews 13 in the TFTIP

Hebrews 13 in the TFTU

Hebrews 13 in the TGNTATF3T

Hebrews 13 in the THAI

Hebrews 13 in the TNFD

Hebrews 13 in the TNT

Hebrews 13 in the TNTIK

Hebrews 13 in the TNTIL

Hebrews 13 in the TNTIN

Hebrews 13 in the TNTIP

Hebrews 13 in the TNTIZ

Hebrews 13 in the TOMA

Hebrews 13 in the TTENT

Hebrews 13 in the UBG

Hebrews 13 in the UGV

Hebrews 13 in the UGV2

Hebrews 13 in the UGV3

Hebrews 13 in the VBL

Hebrews 13 in the VDCC

Hebrews 13 in the YALU

Hebrews 13 in the YAPE

Hebrews 13 in the YBVTP

Hebrews 13 in the ZBP